top of page
Search

वैद्युतशक्तिपिता

  • Writer: Ramgopal Divakar
    Ramgopal Divakar
  • Jan 23, 2023
  • 8 min read

Updated: Jan 25, 2023

The father of Electricity - The is based on true events and majority of the content appeared in Neil Degrasse Tyson’s Cosmos.


१७९५ तमे वर्षे लण्डन्नगरप्रान्तस्य विशीर्णायां वसत्यां कश्चन दरिद्रः बालकः जातः | यद्यपि बालः विद्यालयं गच्छन् आसीत् तथापि तावता कापि प्रगतिः न अदृश्यत यया सः पारङ्गतः वैज्ञानिकः वा भवेत् इति | यतोहि जन्मना तस्य वाचि उच्चारणदोषः आसीत् अतः तेन पदानि स्पष्टतया न उच्चारितानि | तस्मात् कारणात् यत्र रेफः वक्तव्यः तत्र वकारः उच्यते स्म | एकस्मिन् दिने कक्ष्यायां शशस्य (रेबिट्) उच्चारणं तेन आङ्ग्लभाषया “वाब्बिट्” इति कृतम् | द्वित्रिवारं अध्यापिकया परिष्कृते सति अपि सः तथैव अवदत् | अनेन अध्यापिका कुपिता सञ्जाता | बालकस्य पार्श्वे उपविशन्तम् भ्रातरं उक्तवती च “एषः मम परिहासं करोति खलु | धनं स्वीकुरूआपणतः दीर्घं दण्डम् आनय च | ताडनेन अहम् अस्य वाचं शुद्धीकरोमि” इति |


During the year 1795, a poor boy was born in the squalid slums of London. Even though he was going to school, there was not much of a promise that he may become an expert or a scientist. This was because he had a speech defect and couldn't pronounce words clearly from birth. Consequently, where a “ra” sound ought to be said he sounded a “va.” One day in his class, he pronounced “wabbit” in place of rabbit. Even upon being corrected by his teacher a couple of times, he said the same. Because of this, the teacher became upset. She spoke to the boy’s brother sitting close by, “See, he is making fun of me. Take some money and get me a long stick from the shop. By thrashing him, I will fix his speech.”


बालकस्य भीतः भ्राता गृहं गतवान् न तु विपणिम् | चतुरेण भ्रात्रा सूचिता जननी त्वरया धावन्ती बालकं गृहीत्वा विद्यालतः गृहं प्रतिनिवृत्तवती | अम्बा बालकम् उद्दिश्य “वत्स! पश्य! तव एतादृशी क्रूरा अध्यापिका पिशाचीसदृशी अतः इतः परं तव विद्यालयगमनं स्थगयामि” इति | एवमेव सः विद्यालयगमनेन विना एव प्रवृद्धः | त्रयोदशवर्षीयः कृस्तभक्तः सः उद्योगं प्राप्त्यर्थं पुस्तकबन्धनस्य आपणे पुस्तकबन्धकः अभवत् | दिवा सः पुस्तकबन्धनं परिसमाप्य रात्रौ समयानुसारं गृहं न प्रतिगच्छति स्म | यदा तस्य सहचारिणः दीपं निर्वाप्य स्वपन्तः स्म तदा कुतुहली सः आपणे बद्धानि पुस्तकानि उद्घाट्य उत्साहेन अधीतवान् | तडिद्विज्ञान-विषये तस्य आसक्तिः तीव्रतमा जाता | एवम् अहर्निशं उद्योगं पठनं च उभयं कृतम् |


The brother, now afraid, went home instead of the shop. The mom, informed by the clever brother, ran to the school, grabbed the boy, and returned home. She said, “Child! Look! This cruel teacher is like a demon, so henceforth I shall stop your schooling.” Therefore, the boy grew up without going to school. At thirteen and a Christian, the boy sought a job as a book binder at a book-binding facility. During the day he bound books, but at night upon finishing he didn’t return home on time. When his colleagues had turned off their lights and were fast asleep, he opened the bound books and curiously read in the shop. Soon, he became very interested in the topic of Electricity, working hard during the day and reading at night.


कालक्रमेण बालकः प्रवृध्य युवकः सञ्जातः | अन्ते एकविंशतिवर्षीयस्य तस्य युवकस्य परिश्रमः फलितः | लण्डन्नगरे रायल् लण्डन् इति काचित् सभा आसीत् यत्र सामान्यजनानां दरिद्राणां च कृते विज्ञानप्रदर्शनी आयोजिता आसीत् | तत्र भागं वोढुं केनचित् सज्जनेन तस्मै युवकाय चीटिका अपि समर्पिता | सभायां बुद्धिमन्तः प्रसिद्धाः विज्ञानपण्डिताः निरूपकाः नूतनविचारस्रष्टारः च आसन् येषु “हम्फ्रीडेवी” इति नाम्ना श्रेष्ठतमः रसायनशास्त्रविद् अपि सभापतिः आसीत् | तत्र उत्सुकः एषः वैज्ञानिकानां प्रदर्शनेन इन्द्रजालं पश्यामि इति मन्यमानः अत्यन्तं सन्तोषं अन्वभवत् | एतावत् पर्यन्तं तस्य विज्ञानपरिचयः पुस्तकेभ्यः एव परिमितम् आसीत् परन्तु इदानीं प्रामाण्येन दृश्यते स्म | अन्ते श्रोतॄणां सर्वेषां करताडनसमये युवकः शब्दम् अशृण्वन् टिप्पणी-पुस्तके श्रुतान् सर्वान् विषयान् उत्साहपूर्वकं लिखन् आसीत् | रात्रौ त्रिशतपुटस्य पुस्तकस्य बन्धनम् अपि कृतम् | अपरस्मिन् दिने सः हम्फ्रीडेवी-महोदयस्य गृहं गत्वा द्वारशब्धं अकरोत् | सः युवकः उद्घाटितस्य द्वारस्य पृष्ठतः तिष्ठन्तं सेवकम् उक्तवान् “नमस्ते, भगवन् कृपया एतत पुस्तकं भवदीये स्वामिने दीयताम्” इति |


In due course of time, the boy grew into a youth. His efforts bore fruit. The Royal society of London had organized a science exhibition for the common folks and the poor. A gentleman had also given him a ticket to participate there. At that exhibition, there were intelligent, famous scientists, inventors, and men who came up with new creative ideas. Amongst them, the chair was held by the best inventor in the field of Chemistry - Sir Humphrey Davy. There, the excited youth saw the works of the inventors and thought it was some kind of magic show, so he became very happy. So far, his familiarity to sciences was merely through books, but now he saw it in real. At the end of the show when there was a thunderous applause, the youth oblivious to the sounds of it was busy taking notes on the lectures he had heard. That night he also bound the notes into a 300 page book. The next day he went and knocked on Sir Humphrey Davy’s door. He spoke to the servant who stood behind the door, “Sir, please give this book to your master.”


अथ युवकस्य रसायनविषयैः पूरितं पुस्तकं स्वीकुर्वन् आसक्तः हम्फ्रीडेवी महोदयः सर्वं परिशील्य प्रभाते सहकर्तृभ्यः निवेदितवान् “एतादृशं परिश्रमिणं कर्मकरं वयं रसायनशालायां कदाचित् आनयेम | प्रयोजकः एषः अस्माकम् सहायकः भवितुम् अर्हति ” इति | केषाञ्चित् दिनानान्तरं कस्यचित् सेवकस्य परीक्षणशालायाः बहिः निष्कासनं जातम् | एतदवसरेण युवकस्य अदृष्टलाभः सन्ञ्जातः यतः डेवीमहोदयः तम् आहूतवान् | दरिद्रेभ्यो एतादृशः अवकाशः दुर्लभः इति अवगच्छन् युवकः पुस्तकबन्धनकार्यं परित्यज्य आश्रयदात्रा हम्फ्रीडेवी-महोदयेन सह तस्य प्रियतमे अन्वेषणे निमग्नः अभवत् | आदौ सः रसायनशास्त्रस्य सम्बन्धिषु कार्येषु सहायतां अददात् |


Sir Humphrey Davy took the book filled with notes on the lecture and after going through them informed his colleagues, “We must hire this hardworking youth sometime to our lab. He is useful and maybe of help to us.” After some days, one of the lab workers was fired. It was an unseen luck to the youth as Davy called him. The youth, knowing this opportunity is very rare for the poor, quit his book-binding job and immersed himself in what he liked under the care of Sir Humphrey Davy. In the beginning he was assisting in the field of Chemistry.


तत्कालीनाः वैज्ञानिकाः व्यावहरिकविषये वैद्युतशक्तेः किमपि प्रयोजनं न जानन्ति स्म परन्तु सैद्धान्तिकं रूपम् एव ज्ञातवन्तः | विद्युतप्रवाहः आकर्षणशक्तिं जनयति इत्येव तैः ज्ञातम् | अतः जिज्ञासुः सः युवकः परीक्षणशालायां वैद्युतशक्तेः अन्वेषणं कर्तुम् आरभत | तदाधारीकृत्य युवकस्य तीव्रा परीक्षा एकस्मिन् दिने परिणामम् अददात् | तेन प्रदर्शितं, “श्रीमान्तः! परीक्षनयन्त्रम् अत्र स्थापितम् अस्ति | इदानीम् अहं विद्युतधारां प्रवाहयामि | तत्शक्त्या दण्डो एषः भ्रमेत् | वैद्युतक्तिः स्वां परिवृत्य यान्त्रिकशक्तिः बभूव ” इति | एवं सः प्रथमं सञ्चालकयन्त्रं निर्माय विज्ञानशास्त्रवितां जगत् कम्पयति स्म | नूतनस्य सञ्चालकयन्त्रस्य वार्ता सर्वत्र प्रसृता |


In the days of the yore, the scientists knew no practical value to Electricity but only its theoretical understanding. Electricity products magnetic-field is all they know. The curious youth began experimenting with Electricity in the lab. One day his efforts gave results. He demonstrated, “Sirs! I have kept the experimental apparatus here. Let me now allow Electricity to flow. By its force this rod should spin. Electrical Energy has been modified into Mechanical energy. In this way, he built the first motor and shook the scientists of the world. The news of the monitor spread everywhere.


आधुनिके व्यवहारे व्यजनं मिश्रकं विमानं रेलयानं वाहनं नौका इत्यादिषु यन्त्रेषु अस्य आविष्कारस्य महत्त्वं दृश्यते | तस्य प्रभावेन वयं ज्ञातुं शक्नुमः यत् एतस्य युवकस्य प्रतिभा कीदृशी इति | को एषः महावैज्ञानिकः? एतस्य नाम् “मैकल्-फारडे,” | प्रायः एषः च सर्वेषु वैज्ञानिकेषु श्रेष्ठतमः विज्ञानशास्त्रज्ञः यं इदानीन्तनवैज्ञानिकाः अपि सम्मानयन्ति | अथ तत्रत्याः जनाः डेवी-महोदयस्य विशेषतः आविश्कारः “फारडे-महोदयः” एव इति मन्तुम् आरभन्त | अनेन असूयता डेवी-महोदयेन एषा वर्ता समीचीनतया न गृहीता | अनन्तरं सः फारडे-महोदयं दुष्करेषु अन्वेषणकार्येषु आयोजितवान् यत् सर्वथा न सिध्यति | किञ्चित् कालपर्यन्तं डेवी-महोदयः मृतः | कस्यापि आश्चर्यं न यत् प्रकाशमानः फारडे-महोदयः परिक्षणशालायाः निर्देशकः अभवत् इति |


The greatness of this invention is seen today in mixers, aero-planes, trains, vehicles, boats etc. By his creative touch we can know how great his intelligence is. Who is this great scientist? His name is Michael Faraday. He is perhaps the greatest of all scientists who is acknowledged even by scientists of today. Soon, everyone thought Davy’s greatest invention was Faraday. This was not taken very well by Davy who became jealous. He cast Faraday into difficult experiments which would hardly yield success. After a few days, Humphrey-Davy died. It was no surprise that Faraday took over as the director of the lab.


१८२५ तमे वर्षे नवबुद्धिभ्यः युवकेभ्यः कृस्तजन्ममासे विज्ञानक्षेत्रस्य व्याख्यानाम् आवलिः फारडे-महोदयेन व्यवस्थापिता | तदा आरभ्य अद्यावधि प्रतिवर्षं प्रमुखानां विज्ञानशास्त्रविदां व्याख्यानि प्रवर्तमानानि सन्ति | यदा अहं भाग्यवान् जातः तदा अन्यैः अपि एतेभ्यो लब्धव्यम् इति फारडे-वर्यस्य उन्नतः विचारः | एतेषु व्याख्यानेषु सामान्यजनैः विज्ञानास्य चमत्काराः दृष्टाः | एकस्मिन् प्रसङ्गे सः अवदत् , “अस्यस्कान्तः नाम् कश्चन वस्तु आकर्षणशक्त्या लोहनिर्मितानि साधनानि आकर्षति इति भवन्तः जानन्ति | अयस्कान्तानां समीपे आकाशे आकर्षणशक्तेः विद्यमानम् अदृश्यक्षेत्रम् अपि अस्ति | अत्र परीक्षणयन्त्रं स्थापितं मया यत्र अस्यस्कान्तद्वयम् वर्तते | लोहदण्डं गृहीत्वा इदानीं अहं तयोः अयस्कान्तयोः मध्ये चालनेन विद्यमानं अयस्कान्तक्षेत्रं क्षोभयामि | अहो आश्चर्यम्! तेन विद्युद्दीपः प्रज्वलति” इति | यथा विद्युतप्रवाहः आकर्षणशक्तिं जनयति तथा विपरीतस्वभावेन आकर्षणशक्तिः अपि विद्युतशक्तिं जनयति” इति तेन आकर्षण-वैद्युतशक्त्योः नियमाः विरचिताः | एवं सः प्रथमं विद्युज्जनकं इति यन्त्रं निर्मितवान् | गृहे गृहे विद्युतधारया एव यन्त्राणि कार्यं कुर्वन्ति | अद्यत्वे तदभावात् अस्माकं जीवनयापनम् एव न शक्यं भवति |


In the year 1875 during the month of Christmas, Faraday organized a series of science lectures for the young and bright minds. Those science lectures which began then are still ongoing. Just as how I was fortunate, others should as well, was his lofty thought. In these lectures, ordinary men saw the greatness of Science. In one such event Faraday spoke, “There is a certain substance called Magnet which attracts objects made of iron as you all know. Near the magnets, there is also an existing yet hidden magnetic field. I am placing two such magnets in my experimental set up. Grabbing this iron rod, I will disturb the magnetic fields within the two magnets. Lo! And now the electric lamp glows because of it. Just as how Electricity produces magnetic fields, conversely, magnetic fields also produce Electricity.” In this way he established Faraday's laws of Electromagnetics. Soon he built the first Electric generator. In houses today, it is because of that electricity devices function. It is impossible to lead our lives without that nowadays.


फारडे-महोदयः एतानि सर्वाणि कल्पयित्वा अपि नूतनविचारान् चिन्तयन् आसीत् अथः सर्वथा सः अग्रेसरः | आकर्षणशक्तिः अस्ति वैद्युतशक्तिः अपि अस्ति | तयोः प्रकाशेन सम्बन्धः अपि प्रायशः भवति इति प्रकल्प्य सः परीक्षणं बहुधा कृतवान् | अन्वेषणे यत्र न्यूट्न्-महोदयेन न साधितं तत्र किञ्चित् परिणामं एषः प्राप्तवान | तदाधारेण शतवर्षाणां अनन्तरं ऐन्स्टैन्-महोदयवत् वैज्ञानिकैः नूतनसिद्धान्ताः प्रकाशविषये निरुपिताः | परन्तु तत्कालीनाः पण्डिताः फारडे-महोदयस्य नूतनानवेषणविचाराः काल्पनिकाः इत्यतः प्रमाणं विना न अङ्गीकृतवन्तः | अपरः विषयः अपि अस्ति | बाल्यकाले तस्य जीवनं दारिद्रमयम् आसीत् | अतः आधारशिक्षणस्य अभावात् सः गणितविद्यां न ज्ञातवान् | कठिनविज्ञानां निरूपणे गणितविद्यायाः आवश्यकता अत्यन्तं मुख्या अतः इतोऽपि अग्रे तस्य प्रवर्धनं स्थगितं जातम् |


Faraday, despite having invented all these, was constantly thinking of new ideas, so in all respects he was ahead of his peers. Electricity and magnetic fields both exists. Perhaps they are also related to the light he conjectured and performed a lot of experiments. Where Newton wasn’t successful, Faraday had some results. Based on this research, a 100 years later scientists like Einstein revealed a lot of theories on light. However, people of Faraday’s times did not encourage his ideas without proof. There is also another reason. Faraday’s childhood was poverty-stricken. Consequently, without proper formal education he did not know Mathematics. Mathematics is quintessential in revealing the complexities of science. And therefore, he couldn’t progress more.


यदा फारडे-महोदयेन वृद्धावस्था प्राप्ता तदा “जेम्स् मेक्स्वेल्” इति कश्चन युवकेन विश्वविद्यालये गणितविद्या अधीता | तेन फारडे-महोदयाय पुस्तकमेकं निक्षिप्तं यथा पूर्ववत् फारडे-महोदयः डेवीमहोदयाय बद्धं पुस्तकं दत्तवान् आसीत् | तेन तस्मिन् पुस्तके प्रमाणत्वेन फारडे-महोदयस्य अदृश्यक्षेत्रं किम् इति गणितविद्यायाः समीकरणानि उपयुज्य निरूपितवान् यत् अद्यावधि विश्वविद्यालयेषु अपि छात्राः अधीयते |


When Faraday was old a young James Maxwell had obtained a college education where he learned Mathematics. He sent Faraday a book just as how Faraday had sent Davy a bound book in the past. In that book, he gave proof to Faraday’s unseen magnetic field using mathematical equations which even today students study in colleges.


अस्माकं भारतसंस्कृत्यां ईश्वरः एव सर्वेषु श्रेष्ठतमः कर्ता जगत्पिता भोक्ता च इति भारतीयैः मन्यन्ते | स एव श्लाघ्यः | फारडे-महोदयः आदौ दरिद्रः अनन्तरं सामान्यपुस्तकबन्धकः अभवत् | ततः महावैज्ञानिक: भूत्वा श्रेष्ठतमम् उन्नतस्थानं प्राप्तवान् | तस्य कृतयः महत्त्वपूर्णाः श्लाघानीयाः च इत्यत्र न संशयः | अनुवर्तिनः वैज्ञानिकाः तन्त्रज्ञा: भौतिकविद्वांसः विश्वविद्यालयेषु प्राध्यापकाः पाश्चात्याः च तं आद्रियन्ते | अतः सः वैद्युतशक्तिपिता इति सुविख्यातः |


In our Indian culture, Indians think that the greatest creator, father of the universe, enjoyer etc is god. He alone is worthy of praise. Faraday was initially poor and later was just an ordinary book-binder. From there he rose to become a great scientist and earned the highest position. There is no doubt here that his works are of great importance and praiseworthy. The succeeding Scientists, Engineers, Physics scholars, College professors, and Westerners all respect him. Therefore he is known today as the “Father of Electricity.”


 
 
 

Recent Posts

See All
समयान्तरयात्रा

Adapted from the movie Interstellar and Srimad Bhagavatam where there is time travel and the resulting time dilation द्वापरयुगे अवतीर्णः...

 
 
 
रात्रौ विलक्षणं मुखम्

Based on a story by an Indian Author Ruskin Bond - A face in the Dark आलिवरनामा कश्चन आङ्ग्लभारतीयः अध्यापकः कस्याञ्चित् रात्रौ...

 
 
 

Comments


Join my mailing list

Thanks for submitting!

© 2023 by The Book Lover. Proudly created with Wix.com

bottom of page