रात्रौ विलक्षणं मुखम्
- Ramgopal Divakar
- Dec 8, 2024
- 6 min read
Based on a story by an Indian Author Ruskin Bond - A face in the Dark
आलिवरनामा कश्चन आङ्ग्लभारतीयः अध्यापकः कस्याञ्चित् रात्रौ शिमलानगरप्रान्ते विलम्बेन स्वस्य विद्यालयं प्रति गच्छति स्म | तेषु दिनेषु शिमलानगर्यां गुरुकुलसदृशाः आवासशिक्षणकेन्द्राः बहुधा विद्यन्ते स्म | सामान्यतः वणिक्पुत्राः धनाढ्यसुताः एव तत्र गृहात् दूरं छात्रावासे वसन्तः अधीतवन्तः | एतेषां अध्ययनमठानां बोधकेषु बहुकालतः आलिवरः अपि अन्यतमः आङ्ग्लभाषायाः शिक्षक: च |
Oliver, an Anglo-Indian teacher walked towards his school late one night at the outskirts of the town Shimla. In those days, there were many boarding schools in Shimla where kids’ schooling was offered to students who lived there. Generally, sons of merchants or the rich left home, went far to boarding schools, and studied there. Amongst many such teachers who taught in these schools, Oliver was an English teacher.
तस्य आङ्ग्लवर्गे विद्यार्थिनां पुरतः कथां समाप्य कौतूहल्येन आलिवरः पृष्टवान् अस्याः कथायाः भवताम् अभिप्रायः कः | वास्तविककथा काल्पनिककथा वा इति | सुकन्या नाम छात्रा हस्तं उत्तोल्य अनुमत्या कथयितुम् आरभत | वस्तुतः अशरीरिणः प्रेताः रात्र्याम् एव सञ्चरन्ति अतः तेषां पुस्तकदत्तं नामदेयं निशाचरः इति सत्यं एव इति | भोः सर्वे पिशाचाः मुरङ्गीवृक्षेषु भ्रमन्ति इति मम मातुलग्रामे जनाः विश्वसन्ति इति सुन्दरः उक्तवान् | श्रीमन् वेतालाः पिशाचाः स्थूलशरीरं विहाय धृतसूक्ष्मशरीराः इति श्रुतपूर्वं मया | एतत् सत्यं वा इति शृण्वत्सु अन्यतमः भणितवान् | आलिवरः विहसन् कुतूहलमुखान् बोधितवान् अयि भोः सूक्ष्मभूताः इति वदन्ति तर्हि कथं वा द्रष्टुं शक्नुवन्ति | वायुः दृश्यते वा अथवा पाटलपुष्पसुगन्धिं द्रष्टुम् अर्हन्ति वा | तदसम्भवम् | भूतानाम् अस्तित्वं पुस्तकेषु मनस्सु वा एव | अतः कथा काल्पनिकी इत्यत्र न कोऽपि संशयः |
Oliver, after finishing a story in his English class, curiously asked in front of his students, “What is your opinion of this story? Is it fact or fiction?” Sukanya, a student, lifted her hands and answered when she received permission, “Body-less ghosts roam about in the mind so it is apt that they are called the night-roamers.” All ghosts roam in the Moringa trees as believed by the folks in my uncle’s village, said Sundar. Another uttered, “Is it true, what I have heard, that ghosts, discarding their bodies, dwell on their subtle bodies? Oliver, laughing, spoke to the curious minds, “Dear! You all say they are subtle beings, yet how can they be seen? Can wind or the rose fragrance be seen? That is not possible. The existence of ghosts is only found in books and minds. Consequently, this story is fiction.”
विद्यालयतः 3 कि.मि. परिमिते दूरे शिमलानगरस्य प्रसिद्धं वणिक्क्रयविक्रयस्थलं आसीत् यत् नानाविधविक्रयणशालाभिः चित्रमन्दिरेण विविधभोजनालयै: च अलङ्कृतम् आसीत् | आलिवरः स्वभावतया सायं वसतिगृहतः तत्र अटनाशया याति स्म | विशेषतः विहारिणः यात्रिकाः अपि बहव: आगतवन्त: | विद्यालयं प्रतिगन्तुं समीपस्थं अरण्यं परिक्रम्य मुख्यमार्गं वा वनं अतिक्रम्य विरलं लघुमार्गं चेतुं शक्यते | पण्यशालायां कञ्चित् कालं यापयित्वा प्रत्यागमनसमये सः मुख्यमार्गं अविगणय्य देवदारुवृक्षाणां मध्ये अपरवीथ्या वनमार्गेण एव इतवान् | तस्मिन् वनप्रदेशे जतुकाः उलूकाः नागसर्पाः इत्यादयः वनचराः अवर्तन्त | वायुना कम्पमानानां वृक्षाणां शाखोत्पादिताः आशङ्काग्रस्तस्वराः शृगालवृकादीनां रावः च अपि तदा तदा श्रूयन्ते स्म | अतः बहवः भयप्रदात् एतस्मात् पथः मुख्यमार्गः एव सुरक्षितः इति भावयन्तः तमेव चिन्वन्ति स्म |
About 3 km from the school was a famous bazaar in Shimla which was adorned by many stalls, movie theaters, hotels, and such. By nature and interest, Oliver went there every evening to roam. Travelers and many people who liked to stroll also came there. To return back to school it is possible to go around the nearby forest through the main road or cross the forest through a short-cut. After spending some time there, he would not choose the main road but rather the other one that went through the forest and Deodar trees. That region was permeated by bats, owls, cobras, and many such creatures. The sounds from the branches of the trees that were scary or the cries from jackals and wolves were often heard. Consequently, knowing the main road was safer than the scary path through the forest, most chose the former.
परन्तु आलिवरः तादृशः काल्पनिकमनाः उद्विग्नचित्तो व्यक्तिः न वा आसीत् | अविस्तृतं अरण्यपन्थानं चलतः तस्य हस्तेन गृह्यमानः करदीपः इतस्ततः प्रकाशं विकिरति स्म | द्राक् एव करदीपकिरणाः कस्यचित् आकृत्यां प्रकाशिताः | कश्चन बालकः शिलाखण्डस्य उपरि उपविष्टः इव भासते स्म | आलिवरः तत्रैव क्षणकालं अचिन्तयत् किमेतत् विद्यालयेनियमेन विरुद्धाः बालकाः रात्रौ तत्र न उपास्थातव्याः इति |
However, Oliver was not fanciful or a nervous individual. The flash light in his hands, as he was going through the narrow forest path, was scattering light here and there. Soon enough, the rays from his flashlight lit up a figure. It appeared to be a boy sitting on a rock. Oliver thought for a moment - Boys, prohibited by the rules of the school, were not supposed to be there.
भोः बालक अत्र अज्ञातप्रदेशे अनुचितकाले किं वा करोषि | मार्गभ्रष्टः स्यात् वा इति कोपमिश्रितस्वरेण वदन् अपराधिनः मुखपरिचयं अधिगन्तुम् अग्रे पदद्वयं गृहीतवान् | यावत् तस्य उपान्ते प्राप्तवान् तावता तत्रत्यायाः परिस्थितेः असमीचीनता तेन लक्षिता | किमपि अयुक्तम् अस्त्यत्र इति | बालकः रोदिति इव दृश्यते स्म | अधोमुखस्य तस्य हस्ताभ्यां मुखं आवृतम् आसीत् परन्तु तस्य मूर्ध्नि विद्यालयशिरस्त्रं अवलोकितम् | यद्यपि आलिवरेण दृश्यमानं बालकदेहम् अत्यन्तं कम्पमानम् आसीत् तथापि तस्य श्रुतम् रोदनं निशब्दं ध्वनिरहितम् अवर्तत | अनेन आलिवरः व्याकुलतां गतः |
Oliver speaking in an angry tone, “Dear boy! What are you doing in this unknown place at an odd hour? Are you lost?”. He took a couple of steps to recognize the miscreant. By the time he got closer, he could sense the unpleasantness of the situation. Something wasn’t quite right. The boy appeared to be crying. His face was bent downwards and was covered by his hands, but a school cap was seen on his head. Even though the boy was shaking a lot, his crying appeared to be silent and without any sound. Oliver was becoming uneasy.
कोपं उपशम्य आशङ्कास्वरेण पृष्टवान् | किं जातं भोः किमर्थं एवं रोदिषि इति | परन्तु सः उत्तरम् अदत्वा एव मौनं रुदन् उपरि अपि न अपश्यत् | रे इदानीं तव निद्रासमयः खलु | अस्मिन् समये अत्र न भवे: परन्तु तव शयनप्रकोष्ठे | उपरि पश्य | वद का समस्या इति प्रेरितवान् | बालकः यावत् हस्तम् अपनीय ऊर्ध्वमुखः बभूव तावता शिरस्त्रम् अधः पतितम् | आलिवरकरदीपात् तेजोमयूखाः बालकवदने निहिताः | वदनम् इति वक्तुम् शक्तं चेत् |
Oliver, calming his anger, uncomfortably asked, “What happened? Why are you crying like this?” But the boy neither responded nor looked up while crying silently. “Isn’t it your bedtime? You shouldn’t be here at this hour but in your bedroom. Look up. What is your problem?” Asked Oliver inquiringly. When the boy looked up the cap fell from his head. The light from his flashlight fell on the boy’s face. If you could call it a face.
आलिवरेण अवलोक्यमानं बालकाननं नासिकाविहीनं नयनमुखादिशून्यं अकेशेन घटसदृशं इव ईक्षितम् आसीत् | एतत् क्रूरं दृश्यं पश्यतः आलिवरस्य हस्ततः करदीपः भूम्यां पतितः | विलुप्तधैर्यः त्रस्तहृदयः आलिवरः सहसा अन्धवत् उच्चैः साहाय्यं प्रार्थयन् वृक्षगुल्मैः धावितवान् | अग्रे दोलायमान: प्रच्छन्नदीप: यदा तस्य दृष्टिपथे समागतः तथापि धावितवान् आसीत् | आलिवरः स्खलन् विद्यालयस्य प्रहरिणं सङ्घट्ट्य दीर्घं श्वासोच्छ्वासम् अकरोत् | प्रहरी विक्लवमानसं इमं शान्तस्वरेण पृष्टवान् श्रीमन् किं जातम्? किमर्थं धावति |
The face being seen by Oliver had no noise and was devoid of eyes, mouth etc. His hair less head resembled a pot. The flash light fell from the hands of Oliver who was seeing this gory sight. Oliver, frightened and losing his poise ran blindly screaming for help through the trees. When a swinging lantern appeared in his sight of vision he was still running. Oliver, slipping, crashed into the school’s watchman and took a few deep breaths. The watchman seeing a disturbed Oliver calmly asked, “Sir what happened? Why are you running?”
किमपि भयावहं दृश्यं दृष्टवान् भोः | कञ्चित् रुदन्तं बालकं अहं इतो नातिदूरे ईक्षितवान् | सः निराकारः विलक्षणः च | तस्य वदने न मुखं न नासिका न वा कर्णौ | इति बिभ्यत् आलिवरः श्रावितवान् |
Oliver, being frightened, narrated, “I saw something disturbing. A boy, not far from here, was crying. He was strange and featureless. His face had no mouth, no nose, nor ears.
आलिवरेण श्रूयमाणः प्रहरी दीपम् उन्नीय तस्य मुखं प्रकाशितवान् | भगवन् किं वदति भवान् | एतादृशं वा इति उक्तवान् | तदा आलिवरः रात्रौ प्रहरिणः निराकारं विलक्षणं रिक्तमुखं अपश्यत् | न मुखं न नासिका न वा भ्रुवः |
The watchman, hearing Oliver, lifted the lamp up and his face shone. He spoke, “What did you say? You mean like this?” That’s when Oliver saw that night the watchman’s strange featureless empty face. No mouth, no nose, nor any eyebrows.
तस्मिन्नेव समये वायुः दीपं निर्वाप्य वृक्षेषु प्रावहत् | अन्धकारः सर्वत्र प्रसृतः |
That’s when the wind blew the lamp as it flew by. Darkness spread everywhere.
Comments