त्वम् अर्हः
- Ramgopal Divakar
- Jun 2, 2024
- 7 min read
Adapted from a Whatsapp Forward
आसीत् कश्चन अल्पवयस्कः दरिद्रः बालकः | क्षुत्पिपासितः सः कस्मिंश्चित् दिने कञ्चन बौद्धं आश्रमं प्राप्य तत्र नीतिमन्तं प्रमुखं आचार्यं प्रार्थितवान् | देव बहूनि दिनानि यावत् सर्वत्र अटित्वा बुभुक्षापीडितोऽहम् | कृपया तदुपशमनार्थं किमपि दीयताम् | यत्किमपि कार्यं कर्तुं सिद्धः इति | तत्र शून्यवादी आचार्यः अनुकम्पया क्षुधार्तं कृशकायं बालं आदौ पाकशालां नीत्वा भोजनपानादिकं परिवेषितवान् | अनन्तरं सन्तृप्तं रिक्तहस्तं तं बालकं पुत्र त्वम् अध्येता असि किम् ? किं कर्तुं शक्नोषि | किं वा कार्यं करोषि इत्यादीनि पृष्टवान् |
Once there was a young and poor boy. One day, the thirsty and hungry boy, upon reaching a buddhist hermitage, requested the very just chief monk, “Sir! Having roamed for many days, I am tormented by my hunger. Please give me something to pacify it. I am ready to do anything.” Out of compassion, the Buddhist monk took the hungry and emaciated boy to the kitchen and gave him food and water. After, he asked the satisfied boy who was also empty handed some questions; “Boy! Are you well-read? What can you do? What do you do now?
बालकः लज्जितमुखः विषीदन् शिरः अवनमय्य अवमानपूर्वकं उत्तरितवान् | दारिद्र्येण अल्पधनः अहं शास्त्रविहीनः अविद्यश्च | कार्यक्षेत्रे विशेषकुशलता कापि न | अतः दैववशात् यावत् स्थालिकाप्रक्षालनं गृहमार्जनं उद्यानस्वच्छीकरणम् इत्यादीनि कार्याणि प्राप्यन्ते तावत् सन्तोषेण निर्वर्त्य जीवनं यापयमि | इतोऽपि अधिकं न जानामि इति |
The boy , being sad, hung his head down in shyness and replied: Because of poverty I have little money. I lack education and I am unread. In the workforce, I don’t have any special skills. By providence, whatever work I get such as cleaning plates, cleaning houses, and tidying gardens, I happily undertake it and make my living. I don’t know anything more.
बौद्धाचार्यः ब्रुवं उन्नीय पुनः आज्ञास्वरेण पृष्टवान् | सत्यम् | अन्यत् किमपि न ज्ञायते | त्वया इतोऽपि चिन्तयितव्यम् इति | क्षणं विचिन्त्य बालकः प्रकाशमुखेन कथितवान् | श्रीमन् इतोऽपि एकः विषयः अस्ति | काचित् प्रसिद्धा क्रीडा चतुरङ्गम् इति ज्ञाता | तत्र मम किञ्चित् नैपुण्यम् अस्ति | अहं चतुरङ्गक्रीडापटुः इति वक्तुं शक्यते |
The monk raised his brows and asked in a commanding voice, “Are you sure you don’t know anything? You need to think.” The boy thought for a moment and brightly replied, “Sir, there is one thing. There is a game called chess, you know? I have expertise in it. I guess you can call me a good chess player.”
एवं सति तव क्रीडानैपुण्यं अस्मान् प्रदर्शय इदानीम् | अत्र क्रीडालवः बहवः सन्ति | इति मुनिना अभिहितम् | बौद्धमुनिः तस्य दृष्टिपथे कुतश्चित् आगच्छन्तं आश्रमस्य अन्यतममं मुनिम् आहूय पृष्टवान | भोः न्यग्रोधवृक्षस्य अधः चतुरङ्गफलकं सज्जीकृत्य तत्सम्बद्धानि क्रीडावस्तूनि गजद्वयं राजा राज्ञी अश्वद्वयं सैनिकाः इत्यादीन् सङ्गृह्य बालकेन सह क्रीडितुं सिद्धतां करोतु | अन्ये मुनयः अपि एतं दृश्यं वीक्षेरन् इति | बौद्धमुनिः कञ्चन मुनिम् अपि चित्वा निवेदितवान् | वत्स एतेन मुनिना सह त्वं क्रीड इति |
“In that case, show us your game skills. There are plenty of players here,” the monk said. The chief monk called one of the approaching monks in his line of sight and asked. “Set up a chess board under the Banayan tree and bring all the chess pieces so that the boy can play. The other monks may alway want to see.” The monk picked one monk to play against him and informed. “Boy! You shall play with this monk.”
बौद्धमुनिः बालकं परीक्षितुम् इच्छन् कञ्चित् प्रस्तावं विदधाति स्म | क्रीडायाः आरम्भात् प्राक् सः कञ्चन असिम् उत्तोल्य वक्तुम् उद्युक्तः | अयि बालक खड्गपाणिं मां अत्र सावधानं पश्य | यदि उभयोः अन्यतरस्य पराजयः भवेत् तर्हि पराजितस्य क्रीडकस्य नासिका खड्गप्रहारेण यथा विच्छिन्ना भवेत् तथा करोमि इति | बालके श्रुतवति सति किञ्चित् भयम् उत्पन्नम् तस्मिन् परन्तु अनन्यगतिकया सः अङ्ग्यकरोत् |
The Buddhist monk, desiring to test the boy, put forth his proposal. Before the game started he lifted a sword and began talking. “Look at me,the wielder of the sword. If one of you loses then I will cut his nose with this sword.” When the boy heard this he became frightened, but without any other choice, he accepted.
न्यग्रोधच्छायायां मुनेः अग्रतः बालकः उपविशन् श्वेतमूर्तीन् यथा चितवान् तथा अन्यस्मिन् पक्षे मुनिः कृष्णमूर्तिभिः सन्तुष्टः आसीत् | निध्यायतां सर्वेषां शून्यवादिनां पुरतः क्रीडा समारब्धा | आदौ महात्मनां सङ्गे बालकस्य आत्मविश्वासच्युतिः सञ्जाता | तदनु कम्पमानः स्खलितहस्तः सः प्रमादेन गजाश्वसनिकानां फलकस्य चतुष्कोणेषु स्थापनदोषान् कृतवान् | अतः केचन मृताः | सः पराजयं प्रति निस्सरति इव भासते स्म | परन्तु धैर्यम् अवलम्ब्य सः अवधानपूर्वकं क्रीडामि इति निश्चितवान् | फलके व्यूढान् गजराजराज्ञीसैनिकान् इत्यादीन् परीक्ष्य ध्यातुम् आरभत | शीघ्रं मुनेः अश्वं उष्ट्रद्वयं त्रीन् सैनिकान् च हत्वा मृतप्रायः सः पूर्वकृतान् दोषान् समीकृतवान् | अथ परिस्थितिपरिवर्तनतः सः चतुरङ्गजेता प्रायेण भवेत् इति अनेयेषां चिन्तनम् प्रवृत्तम् | सः क्षणद्वयं निमीलितनेत्रः प्रतिपक्षं मुनि पश्यन् आश्चर्येण ज्ञातवान् यत् यद्यपि सः पराजयं प्रति गच्छति स्म तथापि चिन्ताक्रान्तः व्याकुलचित्तः वा नैव आसीत् |
Under the shadows of the banyan, the boy sitting in the front of the monk chose the white pieces while the monk seemed satisfied with black. The game began in front of the Buddhist monks who were watching. At first, in the company of the wise, the boy shaking, his hands slipping, made a few mistakes in placing the pieces. However, he garnered strength and decided to play by paying attention. He started concentrating on the board, examining the chess pieces. Soon, he cut the horse, the two camels, and three soldiers and the boy who had almost lost corrected his past mistakes. Due to the change in circumstances, the others began to think that the boy would win. For a few seconds, the boy opened his eyes and seeing his opponent he knew that despite the fact that the monk was losing he did not appear to be fazed or worried.
बालकेन चिन्तितम् | वस्तुतः गृहशून्यः अधनः अनपेक्षश्च अहम् | प्रयोजनं विना जीवित्वा किमपि न साधयिष्यामि | विनाशानान्तरं मम नासिकाच्छेदनतः का वा हानिः | परन्तु अधीतशास्त्रः समचित्तः जितेन्द्रियः एषः यतिः निर्वाणावस्थां प्राप्नुयात् | अतः तेनैव जेता भवितव्यम् न तु मया अतः इतः परम् सदोषं क्रीडामि | एवं विचिन्त्य मतिभ्रष्टः इव आर्द्रहृदयः बालकः श्वेतवर्णेन निर्मिता राजमूर्तिः यथा वैरिभिः आक्रान्ता भवेत् तथा फलके हन्तॄणाम् व्यूढप्रदेशे निक्षिप्तवान् | अनेन कारणेन निर्गतविजयः बालकः नासिकाच्छेदनम् अपेक्षमाणः खड्गं प्रति शिरः परिवर्तितवान् |
The boy pondered. “I don’t have a house, am poor, and don’t have much expectations. Living without a reason I am not going to achieve anything. After losing the game, what is going to happen if my nose is cut? But the monk on the other hand, is well-read, steady-minded, has conquered his senses, and may well obtain the state of Nirvana. Therefore, he has to be the winner and not me. So I guess I will deliberately make faulty moves.”
Thinking so, the boy, as though he lost his head, became soft hearted and placed the white king so that he may be attacked in a region full of enemy pieces. Consequently, the boy who was losing and expecting his nose to be cut, turned around and faced the sword.
अथ बौद्धाचार्यः झटिति उत्पीठिकाया: उपरि खड्गं प्रहृत्य क्रीडाभङ्गं कृतवान् | चतुरङ्गक्रीडामूर्तयः सर्वासु दिक्षु डयितवन्तः | अनन्तरं तेन शान्तध्वनिना उक्तञ्च | क्रीडायाः समाप्तिः जाता | वत्स त्वम् इतः परम् अस्मदीयः | अत्रैव अस्मदीये आश्रमे मुनिगणेन सह वासं कर्तुम् अर्हः | अतः अद्य आरभ्य अत्रैव प्रविश्य ब्रह्मचारी भव | इति |
The Chief Monk suddenly struck his sword on the table and stopped the game. All the coins flew in different directions. He then said in a calm voice. “The game is over. Son! Hereafter you are one of us. You are eligible to live with our monks in our Ashram. Therefore starting today enter here and become a celibate monk.”
दिग्भ्रान्तः बालकः रक्तविहीनां नासिकां सपृशन् किमपि न अवगतवान् | परमहर्षेण आचार्येण विवृतम् | चतुरङ्गक्रीडात् तव क्रीडासामर्थ्यं परीक्षितुं आशयः न मम | शाक्यमुनिः अस्मत् पारम्परीयः आचार्य: आदिगुरु: च | तेन बोधितां निर्वाणपदवीं प्राप्तुं त्वयि गुणद्वयं अस्ति वा इति निरक्षमाणः अहम् एतां क्रीडां प्रकल्पितवान् इति |
The boy, touching his nose which lacked blood, was confused and didn’t understand what was going on. The monk joyfully explained. “I did not desire to find out your chess expertise. Buddha is from our lineage and our first guru. To get the state of “Nirvana,” He proclaimed, “I was anticipating two qualities and therefore made you play.”
एको गुणः महाप्रज्ञा इति उच्चते येन नरस्य ध्यानशक्तिः प्रवृद्ध्य आविर्भूता भवति | सः मानवः जागरितः इति कथ्यते | यद्यपि त्वं पराजितप्रायः आसीत् तथापि कथञ्चित् इन्द्रियबुद्धी स्थिरीकृत्य एकाग्रता प्रदर्शिता | अतः त्वं ध्यातुं जानासि | द्वितीयः महाकरुणः इति ज्ञायते | यद्यपि तव क्रीडावैरी मुनिः पराजयस्य मुखं प्रति गच्छन् आसीत् तथापि निर्दोषी त्वं महत्या करुणया स्वार्थं परित्यज्य हानावस्थां प्राप्तुं सिद्धः आसीत् यतः तदीया नासिका सुरक्षिता भवेत् न तु तव | अतः अत्यन्तं करुणावान् असि | एतौ गुणौ अन्वेषकाणां रहस्यम् | एताभ्यां गुणाभ्याम् अग्रे जीवनं उत्कृष्टं कर्तुं अर्हसि | अतः अत्र अस्माभिः सह असंशयं जीवितुं अर्हः |
“The first is Maha Prajna , which is the ability to concentrate so one’s power can manifest and grow. It is said that one with Maha Prajna is an awakened one. Even though you almost lost , you somehow steadied your senses and your mind, which showed one-pointedness. Therefore, it’s evident that you know how to meditate. The second is called the great compassion. Even though your opponent was drifting towards the jaws of death, you, being the faultless one, gave up selfishness with great compassion, was ready to face defeat so that his nose can be protected and not yours. You are therefore very compassionate. These two qualities are the secret amongst the seekers. You can enrich your life ahead. You are definitely worthy of living with us.”
जीवने अस्मिन् जयः वा पराजयः वा किमपि भवतु यतोहि केनापि हातुं प्राप्तुं वा विशेषतः किमपि नास्ति इति अस्माकं पूर्वजाः पाठयन्ति | पृथिव्याम् अस्माकं समयः न्यूनः अतः यद्यपि कश्चन अहं प्राप्तकीर्तिः लब्धहानिः इति वा चिन्तयेत् तथापि जयपराजयोः चिन्तनं मायायाः कल्पना एव | उभयं निष्कास्य यः अग्रे गच्छति वस्तुतः स एव जीवति | अयम् एव पन्था: इति ज्ञातव्यः |
“What is victory and what is defeat? In our lives, there is nothing to win or lose. This is what our forefathers teach us. There is little time in our life on earth, so even though one may think that they are a winner or loser, the feelings of winning and losing are the works of illusion. Only one who discards both and marches ahead lives. It should be known that this alone is the path.”
धर्मं बोधयन्तं गुरुं निशम्य बालकः मुनिश्रेष्ठ अहं नितराम् अनुगृहीतः अस्मि इत्युक्त्वा तं साष्टाङ्गं नमस्कृत्य ब्रह्मचारिण: आश्रमं प्रवेष्टुं सङ्कल्पित्वान् |
On hearing the wise words of the guru the boy said, “Oh best amongst the teachers, I am blessed.” He then fell flat, prostrated before the teacher, and decided to enter the hermitage of the celibates.
Comments