top of page
Search

वासुदेवविप्रः

  • Writer: Ramgopal Divakar
    Ramgopal Divakar
  • Mar 6, 2023
  • 6 min read

Updated: Mar 26, 2023

इयं घटना पञ्चदशे षोडशे वा शतके प्रवृत्ता | गौडीयवैष्णवसम्प्रदायस्य चैतन्यचरितामृतः इति प्रसिद्धे ग्रन्थे उल्लिखिता अस्ति | श्रीकृष्णचैतन्यः नाम मेधावी वेदवित् तत्काले पूर्वभारते प्रवृद्धः | यद्यपि आरम्भकाले न्यायशास्त्रम् अधीयमानः आसीत् तथापि अनन्तरं भागवतविषये आसक्तान् अनुसृत्य वैष्णवाचार्यः अभवत् | अनयोः पथोः भागवतमार्गः एव श्रेष्ठतरः इति अवगच्छन् बहूनां जनानां हृदयस्प्रष्टा आनन्दवर्धकः च अभवत् | सः चैतन्यमहाप्रभुः इत्यपि अद्यत्वे सुविख्यातः | वृन्दावनस्य षड्गोस्वामिनः तस्य शिष्याः - एषः साक्षात भगवान् श्रीकृष्णः एव कलियुगावतारपुरुषः गुप्तरूपेण मानवरूपधृक् अभवत् - इति अमन्यन्त | अस्मिन् काले कलेर्दोषेण जनाः वस्तुतः अल्पायवः मन्दमतयः च | एवं स्थिते भगवत्प्राप्त्यर्थं श्रीकृष्णस्य नामसङ्कीर्तनम् एव सर्वथा उत्कृष्टतमम् इति बोधयन् विश्वासिनाम् आश्रयदायकः पतितानां उद्धर्ता च जातः |


This is an incident that happened in the 15th or 16th century AD. It is described in the famous book “Chaitanya Charitamrita” of the Gaudiya Vaishnava tradition. At that time, an intelligent scholar of the vedas grew up in the western part of India. Despite initially studying Nyaya Shastra, he later followed those interested in the Bhagavatha philosophy and became a Vaishnava Acharya. Understanding that the path of devotion is superior of the two, he touched many people’s hearts and became a joy giver. Today he is famously known as Chaitanya Mahaprabhu. The six Goswamis of Vrindavan, his disciples, knew him as none other than Lord Krishna who was in a human form as a hidden avatar in Kali Yuga. In today’s age, due to the defects of Kali, people in general don’t live long and are dull headed. In such circumstances,teaching that chanting Lord Krishna’s names alone is most elevating in all respects he became a shelter giver to believers and an uplifter of the fallen.


तस्मिन्नेवकाले कुष्ठरोगेण बाधितः कश्चन विप्रः कठोरावस्थायां प्रतिवसति स्म | तस्य नाम वासुदेवः इत्यासीत् | यद्यपि तस्य सम्पूर्णं शरीरं व्रणैः आच्छादितं तथापि सः एतत् सर्वं मम कर्मानुसारं अनुभोक्तव्यम् इति विचिन्तयन् तितिक्षया सर्वां पीडाम् असहत | सः पशुपक्षिविषये अत्यन्तं दयालुः समदर्शी अपि च आसीत् | बाधकाः कृमयः कीटाः च तस्य देहक्षते तत्र तत्र वसतिं कृतवन्तः | शरीरतः कदाचित् अधः भूम्यां पतन्ति चेदपि वासुदेवः करुणाभावेन तान् उन्नीय तत्रैव निक्षिप्तवान् | एवं सो विनयशीलः वैरागी सदातृप्तः आसीत् |


During the same time, a Brahmin afflicted with leprosy lived in difficult circumstances. His name was Vasudeva. Despite his entire body being covered with sores, he patiently bore the pain, understanding one has to tolerate it due to one’s own Prarabdha Karma. He was very kind to birds and animals and saw everyone with an equal vision. Troublesome Insects and worms lived on his sores in his body here and there. Sometimes when they fell on the floor, Vasudeva kindly lifted them and placed them back from where they fell. In this way he was humble, detached, and always satisfied.


महाप्रभुः जगन्नाथपुर्यां भगवतः जगन्नाथस्य दर्शनं प्राप्य भक्तानां प्रसङ्गे उक्तवान् | “अथ दक्षिणभारतस्य यात्रां कर्तुं आरप्स्ये | भवद्भिः भगवतः भजनक्रिया सर्वदा आचरणीया | सर्वेषु नियमेषु एते पञ्चांशाः मुख्यतमाः | श्रीकृष्णस्य नामसङ्कीर्तनम् | प्रतिदनं भागवतपुराणस्य पठनम् | साधुसङ्गानाम् आश्रयणम् | मन्दिरे गृहे वा श्रीकृष्णविग्रहस्य सेवनम् | तीर्थक्षेत्रस्य स्थानम् “ इति | इत्थं सः भक्तिपूर्वकं नृत्यन् गायन् भगवन्नाम्ना तुष्यन् च दक्षिणभारतस्य दिशि प्रस्थितवान् | मार्गे मध्ये मध्ये गतवतः काञ्चित् ग्रामीणान् अवलोक्य “हरे कृष्ण वदत गोविन्द भजत ” इति प्रोत्साहितवान् | ते अपि एतत् लाभदायकं वस्तु उत्साहेन स्व्यकुर्वन् |


Mahaprabhu took the Darshan of Lord Jagannat at the Puri temple and spoke amongst his devotees. “I will be beginning a tour of South India. You all should engage yourself in devotional services. Of all the rules of devotion, five are the most important. Those are chanting the names of Lord Krishna, daily studying of Bhagavata Purana, taking the association of pure devotees, deity worship at homes or temples, and staying at a holy place.” Thus, in the mood of devotion he began his tour towards the direction of south India, singing, dancing and relishing the names of the Lord. On the way here and there he would see villagers passing, encouraging them by telling “Chant Hare Krishna!” or “Say Govinda.” They too accepted this pleasure-giving name earnestly.


एकस्मिन् ग्रामे कूर्मनामकः कश्चन ब्राह्मणः सेवादरभावेन महाप्रभुं “भगवन्! अस्माकं गृहं आगन्तव्यम्” इति प्रार्थयत् | तस्य गृहे स्नेहशीलः सः भगवतः पादौ प्रक्षाल्य नानाविधानि ईश्वराय समर्पितानि भोजनानि पर्यवेषयत् | तस्यां रात्र्यां तत्प्रदेशे वासं कुर्वता वासुदेवेन चैतन्यमहाप्रभोः कूर्मब्राह्मणगृहस्य आगमनवार्ता श्रुता | प्रातः परिश्रमेण चलित्वा कदाचित् सृप्त्वा च तस्य निरुपयोगं पीडाबाधितं कायं तत्र प्रापितवान् | गृहात् बहिः मोदमानान् भक्तान् वीक्ष्य सः अत्यन्तं उत्साहपूर्वकं प्रष्टुम् आरभत | “श्रीमन् ! महाप्रभोः अत्रागमने मम अतीव सन्तोषः | कृपया अनुमतिः दीयताम् येन मम तस्य पादपङ्कजं द्रष्टुं शक्नोमि ” इति | कूर्मः उत्तरितवान् “अये विप्र! किञ्चित् विलम्बेन आगतम् | सः अस्मान् अनुगृह्य इतः निर्गतवान् |


In one town, a brahmin named Kurma earnestly, in the mood of service and respect, asked Lord Chaitanya, “Oh Lord, you must come to our house.” At his house, the pleasant-natured Kurma washed the feet of Lord Chaitanya and served him many different foodstuffs which were offered to the Lord. That night, Vasudeva, who lived in that region, heard of Lord Chaitanya’s visit to Kurma Brahmana’s house. In the morning Kurma walked and sometimes crawled and somehow carried his otherwise useless and painful body there in order to have the chance to see him. Outside Kurma’s house, seeing the rejoicing devotees, he excitedly began to ask. “Sir, I am very delighted to hear of Mahaprabhu’s arrival. Please give me permission so I am able to see his lotus feet.” Kurma replied, “Oh Vipra! You have come a little late. He just left after blessing us.”


वासुदेवः अनपेक्षितां वार्तां शृण्वन् दिग्भ्रान्तः जातः | सः विषीदन् रोदनं आरभत, “अहो! कियान् दुर्भाग्यशाली अहम् | स्वामी मां परित्यज्य गतवान् अस्ति इति भासते |” एवं महाप्रभुविरहेण शोकतप्तः भग्नहृदयः वासुदेवः वेदनाम् सोढुम् अशक्तः सन् मूर्च्छां प्राप्तवान् | अथ महाप्रभुः तु सर्वज्ञः | वासुदेवस्य मनोभावं सम्यक् जानाति स्म | शीघ्रमेव धावन् सः भूम्यां पतितं वासुदेवं उन्नीय तस्य व्याधिग्रस्तं शरीरं अविगण्य्य प्रीत्या आलिङ्गितवान् | तस्य स्पर्शनेन वासुदेवस्य कुष्ठरोगः देहपीडा च क्षणमात्रेण अपगता | यत्र वासुदेवस्य जर्जरं शरीरं वर्तमानम् आसीत् तत्स्थाने नवं कलङ्कविहीनं देहं प्रकाशितम् | वासुदेवः उत्थाय अविश्वासेन तस्य देहस्थितिं वीक्ष्यमाणः दयावन्तं श्रीकृष्णचैतन्यं साष्टाङ्गं नमस्कृतवान् |


Vasudeva on hearing the unexpected news became bewildered. Feeling sad, he began to cry. “Alas! I am so unfortunate. It appears that The Lord has left me and gone.” Grief-stricken and heartbroken Vasudeva, unable to tolerate the pain of separation from Mahaprabhu, fainted. However, Mahaprabhu is all knowing. He knew very well the emotions experienced by Vasudeva. He quickly ran and lifted Vasudeva who had fallen to the ground. Disregarding his body’s afflicted condition Mahaprabhu lovinging hugged him. By the touch of the Lord, Vasudeva’s diseased condition and bodily pain instantaneously vanished. Where Vasudeva’s ragged body was present, a new and blemishless body shone. Vasudeva woke up and seeing his bodily condition in utter disbelief, fell flat on the floor offering his salutations to the benevolent Lord Chaitanya.


तेन भगवतः कीर्तनं कर्तुम् आरभ्यत “कोऽहं? दरिद्रः पापी कश्चन ब्राह्मणस्य मित्रम् च | श्रीकृष्णः कः? सः श्रीनिकेतनः | तथापि सः बाहुभ्यां प्रीतिभावेन माम् आलिङ्गितवान् | एतावती अनुकम्पा मद्वद्जनेभ्यो न शक्या | भवत्सु महाजनेषु एव एतादृशः स्वभावः वर्तते | मम शरीरस्य कठोरं दुर्गन्धं घ्रात्वा दुष्कृतिनः अपि सुदूरं पलायन्ते | परन्तु भवान् मां अस्पृशत् | तावान् भगवतः स्वतन्त्रः व्यवहारः |” इति | एतदुक्त्वा विन्यान्वितस्य वासुदेवस्य मुखं भयं अनुभूय विवर्णं सञ्जातम् | चिन्ताक्रान्तः वासुदेवः अपृच्छत् “इदानीं भवदनुग्रहेण रुग्णो नाहम् | यद्यहम् अहंकारी भवेयम् तर्हि मम का गतिः” इति |


He began glorifying the Lord. “Who am I? A poor sinner and a friend of some Brahmin. Who is Lord Krishna? He is wife of Lakshmi, the goddess of wealth. Yet, he hugged me with love. Such compassion is not possible for people like me. Such behavior exists only in great men like you. Even sinners on smelling the foul odor of my body flee afar, yet the Lord touched me. Such is the extent of the independent will of the Lord.” After saying this, the face of Vasudeva who was full of humility exhibited fear and grew pale. He spoke worriedly, “By your grace I am now no longer diseased. What if I am overcome by ego. What will happen to me?”


श्रीकृष्णचैतन्यः प्रीतिपूर्वकं वासुदेवस्य सान्त्वनम् अकरोत् | “सर्वदा श्रीकृष्णस्य नाम् वक्तव्यम् कीर्तनीयं च | तस्य प्रभावेण निरहङ्कारकः भवसि त्वम् | अपि च गोविन्दस्य नाम् गृह्णन् सर्वत्र अन्येभ्यः सेवकभावेन प्रचारकः भव | तथा सर्वथा विद्याविनयसंपन्नः एव भवसि” इति उपदेशं दत्त्वा महाप्रभुः ततः निर्गतवान् | वासुदेवः कूर्मः चः परस्परम् आलिङ्ग्य कूर्मगृहस्य गृहं गत्वा भागवतकथायां निमग्नौ आस्ताम् |


Mahaprabhu pacified Vasudeva with loving words. “Always chant the names of the Lord Krishna and glorify him. By its grace you will always be free from false ego. Also take the Lord’s name and preach to others in the mood of a servant. That way you will always be full of wisdom and humility.” Having preached thus Mahaprabhu left that place. Vasudeva and Kurma hugged each other and went to Kurma’s home where they immersed themselves in the Lord’s stories.


महाजनस्य सम्पर्कः कस्य न उन्नतिकारकः इति उक्तिः अत्र वास्तविकतया प्रदर्शिता | महाप्रभोः किञ्चित्कालसङ्गमेन एव वासुदेवस्य पीडाः विगताः | अपि च महाप्रभोः भागवताशीः अपि लभ्यते स्म वासुदेवेन | प्रत्यर्पणे महाप्रभुना धनाधिकं किञ्चित् वस्तु वा न अपेक्षितम् | केवलं वासुदेवः श्रद्धावान् सङ्कीर्तकः अन्येभ्यः पावनेभ्यो उद्धारकः वा भवेत् इत्येव | महात्मनः अपेक्षता तादृशी | भागवतपुराणस्य अन्तिमः श्लोकः नामसङ्कीर्तनस्य महिमानम् एवं वर्णयति |


Whose ascent will the association of great people not accomplish? This saying has been demonstrated in fact here. By little association with Lord Chaitanya, Vasudeva’s pain left him. Further, he also got the grace of the Lord from Lord Chaitanya. In return, he did not expect any money or material things. Just that Vasudeva may become a sincere chanter and an uplifter of the fallen. Those are the expectations of the great. The last verse of the Bhagavata Purana glorifies the greatness of congressional chanting of the names of the Lord.


नामसङ्कीर्तनं यस्य सर्वपापप्रणाशनम् ।

प्रणामो दु:खशमनस्तं नमामि हरिं परम् ॥


I offer my respectful obeisances unto the Supreme Lord, Hari, the congregational chanting of whose holy names destroys all sinful reactions, and the offering of obeisances unto whom relieves all material suffering.


 
 
 

Recent Posts

See All
समयान्तरयात्रा

Adapted from the movie Interstellar and Srimad Bhagavatam where there is time travel and the resulting time dilation द्वापरयुगे अवतीर्णः...

 
 
 
रात्रौ विलक्षणं मुखम्

Based on a story by an Indian Author Ruskin Bond - A face in the Dark आलिवरनामा कश्चन आङ्ग्लभारतीयः अध्यापकः कस्याञ्चित् रात्रौ...

 
 
 

Comments


Join my mailing list

Thanks for submitting!

© 2023 by The Book Lover. Proudly created with Wix.com

bottom of page