नीलशृगाल कथा
- Ramgopal Divakar
- Mar 19, 2021
- 4 min read
Updated: Apr 6, 2021
The Blue Jackal - Adapted from the Panchatantra. Now published by Madras Sanskrit College - https://www.youtube.com/watch?v=j1etMRDNaII&t=106s
कस्मिंश्चित् अरण्यप्रदेशे चण्डरवः नाम शृगालः निवसति स्म | एकदा सूर्यास्तसमये सः भोजनार्थं स्वगुहातः नगरपर्यन्तं आगतवान् | तत्र गृहाणाम् अवकरिकासु रात्रिभोजनाशिष्टानां अन्वेषणं कुर्वन् आसीत् | अथ पार्श्वे भषन्तः शुनकगणाः स्वदन्तान् प्रदर्श्य शृगालस्य उपरि निपत्य दशनम् आरभन्त |
In a certain forest, there lived a jackal whose name was Chandarava. Once during dusk he came to the outskirts of a town from his cave in search of food. There, he was searching for dinner leftovers in the trash cans of houses. Barking dogs nearby showing their teeth jumped on the jackal and started biting him.
भीतः चण्डरवः शुनकमुखात् कथमपि प्रमुञ्च्य ततः पलायनं कृत्वा कश्चन रजकस्य गृहं प्राविशत् | पर्वणसमयः च गृहे कोऽपि नासीत् | रजकेन वस्त्राणां वर्णणार्थं एके बृहत्पात्रे नीलरङ्गः पूरितः | शुनकेभ्यः भयेन धावितः चण्डरवः महाभाण्डे पतितवान् | पात्रात् निष्क्रान्तः शृगालः चन्द्रिकायां भगवत्वसुदेवसदृशः नीलवर्ण: दृष्टः | शुनकाः नीलदेहं स्थितं तं शृगालं दृष्ट्वा सः कश्चन राक्षसमृगः इति विचिन्त्य प्राणभयात् ततः पलायितवन्तः |
Chandarava, being afraid, somehow escaped from the jaws of the dogs, fled from there, and entered a washerman’s house. It was festival season and no one was home. The washerman had filled a huge barrel with blue dye for the purpose of dying the clothes. The jackal who was running away from the dogs fell into the huge vessel. The jackal after emerging from the pot looked as blue as Lord Krishna in the moonlight. The dogs on seeing the blue bodied jackal sitting there thought he was an animal like a demon and fearing for their lives fled from there.
यद्यपि चण्डरवः नीलवर्णं अपाकर्तुं नद्यां निमग्नः भूम्यां विलुठितः च तथापि तस्य शरीरात् नीलवर्णं नैव अपगतम् | चिन्ताक्रान्तः सः तस्य विपन्नं प्रयत्नं त्यक्त्वा अरण्यं प्रति सर्पति स्म | वने द्विजाः क्रूराः चतुष्पादा: च मृगाः एनं नीलकायं विचित्ररूपं चण्डरवं दृष्ट्वा भीताः सन्तः ततः दशसु दिक्षु धावितवन्तः | एतेषां धावताम् प्राणिनां अवस्थां दृष्ट्वा शृगालस्य मनसि एक: उपाय: आगत: |
Even though Chandarava immersed himself in the river or rolled on the floor the blue color from his body didn’t go away. Being concerned he gave up his unfruitful effort and set forth slunk towards the forest. In the forest, birds, wild four-legged creatures on seeing this bluebodied Chanadarava being afraid fled from there in 10 different directions. On seeing the plight of these animals a plan entered the mind of Chandarava.
सः उच्चै: अवदत् “भोः जन्तवः! गज! सिंह! व्याघ्र! मा भेतव्यम् | अलं पलायनेन | भूमण्डले उत्तमः पालकः कोऽपि नास्ति इति ब्रह्मणः अभिप्रायः | अतः मम सृष्टिकारणम् | सः एतत् अपि माम् उक्तवान् “वत्स तव नामधेयं ककुद्रुमः ! पृथिव्यां अवतीर्य मर्त्यलोकं परिपालय | तव राज्येन लोका: समस्ताः सुखिनः भवन्तु”” | सर्वे मृगाः अधोमुखं कृत्वा चण्डरवस्य पादान् मनसि विचिन्त्य भूम्यां नमस्कृतवन्तः | ते प्रार्थितवन्तः, “भगवन्! अस्मान् विज्ञापयतु | किं कर्तव्यम् ? भवतः उद्देशः कः? वयं अवश्यं भवतः वचनं पालयाम” |
He loudly exclaimed, “Dear animals, elephant, lion, tiger, fear not. Stop running. It is Brahma’s opinion that there is no great ruler on earth. And thus the cause of my creation. He further stated, “Son, your name is Kakudruma. Descend to the earth and rule it. In your rule, let there be happiness in the world.” All the animals bend down and thinking of legs they performed salutations. They asked, “Lord, please instruct us. What is our duty? What is your intent? We shall comply with obedience”
प्रथमं चण्डरवः स्वजातेः अन्ये शृगालाः तस्य रिपवः इति निश्चितवान् | अतः तान् अरण्यात् बहिः सुदूरं निष्कास्य सिंहाय मन्त्रिपदं अददात् | व्याघ्रः तस्य शयनगृहरक्षणं करोति स्म | वृक: द्वारपालक: अभवत् | गजेन भोजनसेवा कृता | एवमेव प्रतिदिनं मरितान् पशून् आनीय ते शृगालाय अददुः | चित्रकेण परिवेषितं मांसं यथेष्टं संखाद्य यदा सुप्तः आसीत् तदा वानरः तस्मै तालपत्रेण वीजनम् अकरोत् | गच्छता कालेन नीचकुलीजातः चण्डरवः स्थूलः अलसः च भूत्वा राज्यपदम् अमोदत |
First, Chandarava decided the other jackals were his enemies. So he threw them out of the forest quite far away and gave the minister post to the Lion. The tiger guarded his bedchambers. The wolf became his doorkeeper. The elephant was in charge of his food. In this manner, they brought the killed animals and gave it to the jackal. The meat served by the zebra he ate to his satisfaction and while he was asleep the monkey fanned him with a palm leaf. As time went by the lowborn Chandarava became fat and lazy and enjoyed a royal life.
एकदा पूर्णिमायां रात्रौ उपविष्टः सः मृगाणां सभायां नीतिं बोधयति स्म | तदा बहुदूरात् वायुना आगतं शृगालरवं श्रुत्वा तस्मिन् अत्यन्तम् उत्कण्ठिता सञ्जता | दीर्घकालपर्यन्तं स्वजातीयाः चीत्कारं श्रुत्वा तस्य राज्यपदं विस्मृतवान् | सम्मोहात् उन्मदितः सः उच्चैः "हू हू" इति शृगालस्वरेण विरावं कर्तुं आरभत | क्षणमात्रेण अयं वञ्चकः इति मृगा: अजानन् | सर्वे जन्तवः तीक्ष्णैः दन्तैः क्रूरैः नखैः च प्रतारकं नीलकायं शृगालं विदार्य तं स्वर्गलोकं प्रेषितवन्तः |
Once on a full moon night he was instructing morals in the assembly of animals. Upon hearing the faraway cries of the jackal carried by the wind he developed a lot of longing. After a long time upon hearing the cries of his clan he forgot his royal status. Being mad and out of confusion he began loudly howling “Hu Hu.”
Instantly, the animals knew he was a cheat. All the animals tore open the cheat and blue bodied jackal with their sharp teeth and nails.
सम्यक् सम्यक् . बहु स्वारस्य कथा
बहू सम्यक् लिखितवान् महोदय। प्रणामम्।