अभग्नाः घटाः
- Ramgopal Divakar
- Jan 20, 2021
- 3 min read
Updated: Feb 24, 2021
This is a story appearing in Tinkle Amar Chitra Katha comic retold here in simple Sanskrit.
Also published by Madras Sanskrit College here - Also published by Madras Sanskrit College here - https://www.youtube.com/watch?v=Aen7hstS26M&t=171s
एकदा काशीनगरे चारुदत्तः नाम एकः कुलालः अवसत् | सः घटान् निर्माय जीवनं करोति स्म | तस्य आपणे सर्वदा जनसम्मर्दः अधिकः आसीत् | एकस्मिन् ग्रीष्मकालदिने एकः स्थूलग्राहकः अन्तरागत्य चारुदत्तम् उच्चैः आह्वयत् | “भोः अद्य यदा अहं क्षीरमुष्णं कुर्वन् आसं तदा एकः मार्जारः धावित्वा मम घटस्य उपरि अवापतत् | अत्र पश्य मम आनीतान् खण्डान् | तदा अन्येकः ग्राहक: अपि अन्तः प्राविशत् | चारुदत्तम् दृष्ट्वा अवदत् “अरे ह्यः प्राते मम गृहे तव घटः अधः पतित्वा भग्नः अभवत् | तृतीयः कृष्णवर्णीयः ग्राहकः अपि आपणं प्राविशत् | तस्य नासिका दीर्घा आसीत् | सः चारुदुत्तं दुःखेन न्यवेदयत् | “भोः तव घटाः उत्तमाः परन्तु कस्मिंश्चित दिने ते भञ्जन्ति एव |
Once a potter named Charudatta lived in a city called Kashi. He made his livelihood by selling pots. His shop was always crowded. One summer day, a stout customer came in the store and loudly called Charudatta. Hey! This morning when I was boiling milk a cat ran and crashed into my pot. Now see here the broken pieces I brought. Another customer entered. On seeing Charudatta he said, “Hey! This morning your pot fell and broke.” A third dark skinned customer also walked in. He had a long nose. Your pots are good but someday they are going to break.
एतेषाम् आक्षेपणं श्रुत्वा कुलालः दुःखितः अभवत् | सः घटान् निर्मातुं न्यवारयत् | "अहम् देवीं वरं प्रक्ष्यामि" इति सङ्कल्पितवान् | गृहात् बहिः स्थित्वा सः वनदिशायां प्रस्थानम् अकरोत् | सः तत्र अश्वत्थतरोः अधः पद्मासने आस्थाय देव्याः प्रसन्नमुखम् स्मृत्वा ध्यातुम् आरभत | संतुष्टा देवी वरं अददात्| चारुदत्तः अपृच्छत् “ममं ग्राहकाः गर्हन्ति यत् मम मृत्तिकया निर्मित्ता: घटाः सर्वदा भग्नाः भवन्ति | अतः मम प्रार्थना एते घटाः अच्छेद्याः भवेयुः” इति | देवी तस्य इच्छाम् अङ्ग्यकरोत् | सन्तुष्टः चारुदत्तः गृहं प्रत्यागतवान् |
On hearing these complaints the potter became sad. He stopped making pots. He swore to ask Devi a boon. Outside his house he went towards the forest. There, he sat under a Banyan tree in Padmasana yoga pose, thought of Devi’s smiling face, and started to meditate. The Devi being pleased, conferred a boon. Charudatta asked, “My customers are complaining that the pots I make always break. Therefore, my request is they stay unbreakable.” She agreed to his request. A happy Charuduttta returned home.
सः सर्वान् ग्राहकान् आह्वयत् | “सर्वे अत्र पश्यन्तु | मम घटाः मायिकाः" इत्युक्त्वा सः घटं अपातयत् | पतित: घट: भग्न: न अभवत् | तत्र स्थितानां जनानां आश्चर्यम् | मासान्तरे चारुदत्तः सहस्रघटानां विक्रयणं कृतवान् | केषाञ्चन दिनानाम् अनन्तरं आपणे जनसम्मर्दः न्यूनः अभवत् | आपणात् बहिः तस्य ग्राहकः नारायणः छत्रं गृहीत्वा द्विचक्रिकायां गच्छन् आसीत् | “अरे नारायण किं युष्माभिः मम घटाः न इष्टाः?” इति चारुदत्तः आक्रोशत् | नारायणः अवदत् “तव घटाः उत्तमाः | यद्यपि वयम् तेषां विक्षेपणम् कुर्याम तथापि ते न भञ्जन्ति | अतः वयं अत्र न आगतवन्तः” इति |
He called all his customers. “You all see here, my pots are magical,” and saying so he dropped a pot but it didn’t break. The crowd standing there were wonderstruck. At the end of the month Charudutta had sold 1000 pots. After Some days however the crowd lessened. His customer Narayana was outside his shop going on a bike holding an umbrella. “Hey Narayana, you all don’t like my pots anymore?” Exclaimed Charudutta. Narayana replied, “Your pots are great. Even though we may throw it they never break. Therefore we don’t come anymore”
तदनुसारेण ग्राहकानाम् आगमनं समाप्तम् अभवत् | चारुदत्तः तस्य वणिज्यदोषम् अवगतवान् | पुनः वनं गत्वा देव्याः उपासनाम् अकरोत् | "मम घटाः अभग्नाः मा भवतु | यथा ते आसन् तथैव कृपया ते भवन्तु” इति प्रर्थिथवान् | देवी “तथास्तु” इति अवदत् | अग्रिमप्राते यदा चारुदत्तः विपणिं गतवान् तदा कलहं आसीत् तत्र | सर्वाणां हस्ते भग्नाः घटाः आसन् | चारुदत्तः विहस्य अन्तर्गतः |
In this manner, the arrival of his customers completely stopped. Charudutta realized the mistake he made in business. Once again he went to the forest and worshipped Devi. “Please don’t make my pots unbreakable. Let them be as there were earlier,” he pleaded. Devi agreed. Next morning when Charudutta went to his shop a quarrel arose. Everyone’s hand held broken pots. Charudutta laughed softly and entered his shop.
Comments